आप के लिए शिवरात्रि मंगलमय हो

आप के लिए शिवरात्रि मंगलमय हो 


छोटा अखबार।

सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् | भक्तप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ‖ 1 ‖ 

श्रीशैलशृङ्गे विविधप्रसङ्गे शेषाद्रिशृङ्गेऽपि सदा वसन्तम् |तमर्जुनं मल्लिकपूर्वमेनं नमामि संसारसमुद्रसेतुम् ‖ 2 ‖ 

अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् |अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ‖ 3 ‖

कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय |सदैव मान्धातृपुरे वसन्तं ओङ्कारमीशं शिवमेकमीडे ‖ 4 ‖ 

पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसं तं गिरिजासमेतम् |सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ‖ 5 ‖ 

यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च | सदैव भीमादिपदप्रसिद्धं तं शङ्करं भक्तहितं नमामि ‖ 6 ‖

 श्रीताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसङ्ख्यैः |श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ‖ 7 ‖

याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः |सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ‖ 8 ‖ 

सानन्दमानन्दवने वसन्तं आनन्दकन्दं हतपापबृन्दम् |वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ‖ 9 ‖ 

सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे |यद्दर्शनात् पातकं पाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ‖ 10 ‖ 

महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः |सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ‖ 11 ‖ 

इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् |वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणं प्रपद्ये ‖ 12 ‖

 ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण |स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ‖

Comments

Popular posts from this blog

सरकार का सूचना एवं जनसम्पर्क विभाग फेल, रुपयों में छपवानी पड़ रही है, बजट घोषणा की प्रेस विज्ञप्ती

देश में 10वीं बोर्ड खत्म, अब बोर्ड केवल 12वीं क्‍लास में

आज शाम 7 बजे व्यापारी करेंगे थाली और घंटी बजाकर सरकार का विरोध

रीको में 238 पदों की होगी सीधी भर्ती सरकार के आदेश जारी 

मौलिक अधिकार नहीं है प्रमोशन में आरक्षण — सुप्रीम कोर्ट

10वीं और 12वीं की छात्राओं के लिऐ खुशखबरी, अब नहीं लगेगी फीस

Chief Minister मुख्यमंत्री के विभाग डीआईपीआर में खेला